|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.150. अध्यायः 150
Mahabharata - Adi Parva - Chapter Topics
द्रुपदोत्पत्तिः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-150-0x(892)(6853)
द्रुपदस्यापि विप्रर्षे श्रोतुमिच्छामि संभवम्।
कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान्॥' 1-150-1(6854)
एतदिच्छामि भगवंस्त्वत्तः श्रोतुं द्विजोत्तम।
कौतूहलं जन्मसु मे कीर्त्यमानेष्वनेकशः॥ 1-150-2(6855)
वैशम्पायन उवाच। 1-150-3x(893)
राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात्।
वनं गतो महाराजस्तपस्तेपे सुदारुणम्॥ 1-150-3(6856)
आराधयन्प्रयत्नेन महर्षीन्संशितव्रतान्।
तस्य संतप्यमानस्य वने मृगगणायुते॥ 1-150-4(6857)
कालस्तु सुमहान्राजन्नत्ययात्सुतकारणात्।
स तु राजा महातेजास्तपस्तीव्रं समाददे॥ 1-150-5(6858)
कंचित्कालं वायुभक्षो निराहारस्तथैव च।
तथैव तु महाबाहोर्वर्तमानस्य भारत॥ 1-150-6(6859)
कालस्तस्य महाराज यातो वै नृपसत्तम।
ततो नातिचिरात्काले वसन्ते कामदीपने॥ 1-150-7(6860)
फुल्लाशोकवने चैव प्राणिनां सुमनोहरे।
नद्यास्तीरं ततो गत्वा गङ्गायाः पद्मलोचनः॥ 1-150-8(6861)
नियमस्थश्च राजासीत्तदा भरतसत्तम।
ततो नातिचिरात्काले वनं तन्मनुजेश्वर॥ 1-150-9(6862)
संप्राप्ता ह्यप्सरा राजन्मेनकेत्यभिविश्रुता।
पुष्पद्रुमान्सज्जमाना राज्ञो दर्शनमागमत्॥ 1-150-10(6863)
न ददर्श तु सा राजंस्तत्र स्थानगतं नृपम्।
दृष्ट्वा चाप्सरसं तां तु शुक्रं राज्ञोऽपतद्भुवि॥ 1-150-11(6864)
ततः स राजा राजेन्द्र लज्जया नृपतिः स्वयम्।
पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत्॥ 1-150-12(6865)
ततस्तु तपसा तस्य राजर्षेर्भावितात्मनः।
पुत्रः समभवच्छीघ्रं पदोस्तस्य क्रमेण तु॥ 1-150-13(6866)
तेनास्य ऋषयः सर्वे समागम्य तपोधनाः।
नाम चुक्रुर्हि विद्वांसो द्रुपदोऽस्त्विति भारत॥ 1-150-14(6867)
स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत।
ववृधे सुमुखं तत्र कामैः सर्वैर्नृपोत्तम॥ 1-150-15(6868)
पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः।
भरद्वाजस्य विद्यार्थं सुतं दत्वा महात्मनः॥ 1-150-16(6869)
स कुमारस्ततो राजन्द्रोणेन सहितो वने।
वेदांश्चाधिजगे साङ्गान्धनुर्वेदांश्च भारत॥ 1-150-17(6870)
परया स मुदा युक्तो विचचार वने सुखम्।
तस्यैवं वर्तमानस्य वने वनचरैः सह॥ 1-150-18(6871)
कालेनातिचिराद्राजन्पिता स्वर्गमुपेयिवान्।
स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः॥ 1-150-19(6872)
प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः।
राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपम्॥ 1-150-20(6873)
एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम्।
द्रुपदस्य च राजर्षेर्धृष्टद्युम्नस्य जन्म च॥ ॥ 1-150-21(6874)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चाशदधिकशततमोऽध्यायः॥ 150 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|